हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Lakshmi Narasimha Darshana Stotram – श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम्
रुद्र उवाच ।
अथ देवगणाः सर्वे ऋषयश्च तपोधनाः ।
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ॥ १ ॥
ते प्रसादयितुं भीता ज्वलन्तं सर्वतोमुखम् ।
मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ॥ २ ॥
हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् ।
विष्णोर्नित्यानवद्याङ्गीं ध्यात्वा नारायणप्रियाम् ॥ ३ ॥
देवीसूक्तं जपैर्भक्त्या नमश्चक्रुः सनातनीम् ।
तैश्चिन्त्यमाना सा देवी तत्रैवाविरभूत्तदा ॥ ४ ॥
चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता ।
दुकूलवस्त्रसंवीता दिव्यमाल्यानुलेपना ॥ ५ ॥
तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः ।
ऊचुः प्राञ्जलयो देवि प्रसन्नं कुरु ते प्रियम् ॥ ६ ॥
त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु ।
इत्युक्ता सहसादेवी तं प्रपद्य जनार्दनम् ॥ ७ ॥
प्रणिपत्य नमस्कृत्य सा प्रसीदेत्युवाच तम् ।
तां दृष्ट्वा महिषीं स्वस्यप्रियां सर्वेश्वरो हरिः ॥ ८ ॥
रक्षः शरीरजं क्रोधं सर्वं तत्याज वत्सलः ।
अङ्केनादाय तां देवीं समाश्लिष्य दयानिधिः ॥ ९ ॥
कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान् हरिः ।
ततो जय जयेत्युच्चैः स्तुवतां नमतां तथा ॥ १० ॥
तद्दयादृष्टिदृष्टानां सानन्दः सम्भ्रमोऽभवत् ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ ११ ॥
ऊचुः प्राञ्जलयो देवं नमस्कृत्वा नृकेसरिम् ।
द्रष्टुमत्यद्भुतं तेजो न शक्ताः स्म जगत्पते ॥ १२ ॥
अत्यद्भुतमिदं रूपं बहु बाहुपदान्वितम् ।
जगत्त्रयसमाक्रान्तं तेजस्तीक्ष्णतरं तव ॥ १३ ॥
द्रष्टुं स्थातुं न शक्ताः स्म सर्व एव दिवौकसः ।
इत्यर्थितस्तैर्विबुधैस्तेजस्तदतिभीषणम् ॥ १४ ॥
उपसंहृत्य देवेशो बभूव सुखदर्शनः ।
शरत्कालेन्दुसङ्काशः पुण्डरीक निभेक्षणः ॥ १५ ॥
सुधामय सटापुञ्ज विद्युत्कोटिनिभः शुभः ।
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः ॥ १६ ॥
बाहुभिः कल्पवृक्षस्य फलयुग्विटपैरिव ।
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः ॥ १७ ॥
जपाकुसुमसङ्काशैः शोभितः करपल्लवैः ।
गृहीत शङ्खचक्राभ्यां उद्बाहुभ्यां विराजितः ॥ १८ ॥
वरदाऽभयहस्ताभ्यां इतराभ्यां नृकेसरी ।
श्रीवत्सकौस्तुभोरस्को वनमाला विभूषितः ॥ १९ ॥
उद्यद्दिनकराभाभ्यां कुण्डलाभ्यां विराजितः ।
हारनूपुरकेयूर भूषणाद्यैरलङ्कृतः ॥ २० ॥
सव्याङ्कस्थश्रिया युक्तो राजते नरकेसरी ।
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताश्च महर्षयः ॥ २१ ॥
आनन्दाश्रुजलैः सिक्ताः हर्षनिर्भरचेतसः ।
आनन्दसिन्धुमग्नास्ते नमश्चक्रुर्निरन्तरम् ॥ २२ ॥
अर्चयामासुरात्मेशं दिव्यपुष्पानुलेपनैः ।
रत्नकुम्भैः सुधापूर्णैरभिषिच्य सनातनम् ॥ २३ ॥
वस्त्रैराभरणैर्गन्धैः पुष्पैर्धूपैर्मनोरमैः ।
दीपैर्निवेदनैर्दिव्यैरर्चयित्वा नृकेसरिम् ॥ २४ ॥
तुष्टुवुः स्तुतिभिर्दिव्यैर्नमश्चक्रुर्मुहुर्महुः ।
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान् ददौ ॥ २५ ॥
इति श्रीपद्मपुराणे उत्तरखण्डे अष्टत्रिंशदधिकशततमोऽध्याये श्री लक्ष्मीनरसिंह दर्शन स्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.